Tuesday 20 August 2019

प्रेमनाथपञ्चकम्

प्रेमनाथपञ्चकम्

अथ विक्रमस्य 2075 वर्षे साधारणनामसंवत्सरदक्षिणायने वर्षाऋतौ  श्रावणकृष्णपञ्चम्यां ज्योतिषचन्द्रात्मजो देवाङ्गशर्माऽहं मम जन्मदिनावसरे अकारणकरुणावरुणालयसाम्बसदाशिवप्रेमनाथप्रीतये प्रसन्नतायैच स्वरचितपद्यपंचकपंकजविवफलश्रृतिपंचकपंकजसहितप्रेमनाथपदपंकजयो: प्रीयताम् ।।

प्रेमनाथपञ्चकम्

विभुं विश्वभुग्विश्वकृद्विश्वनाथं
भयानां भयं भूतनाथं महान्तम् ।
श्रृते: साररूपं श्रृतिज्ञानगम्यं
स्मरामो नमाम: प्रभुं प्रेमनाथम् ।।1।।

अगम्यम् अयुग्मम् अपारम् अयोनिम्
नकारादिवन्द्यं नम: शूलपाणिं ।
निदिध्यासने संस्थितं वैष्णवं तं
स्मरामो नमाम: प्रभुं प्रेमनाथम् ।।2।।

भवं भावगम्यं सुरम्यं शरीरी
भयानां भयं भासकं भासकानाम् ।
स्मशानाधिवासी जटाजूटयुक्तं
स्मरामो नमाम: प्रभुं प्रेमनाथम् ।।3।।

प्रचण्डं प्रगल्भं दिनेशस्य ईशं
तम: क्षालयन् पुण्यदाता च भोक्ता ।
गुणागारसंसारसारम् अपारं
स्मरामो नमाम: प्रभुं प्रेमनाथम् ।।4।।

महादेवदेवं महेशं सुरेशं
सुरै:स्वर्चितं वेदवेद्यं च वन्द्यम् ।
विरूपाक्षभर्गं हरं सर्पहारं
स्मरामो नमाम: प्रभुं प्रेमनाथम् ।।5।।

।।अथ फलश्रृति:।।

य इदं पञ्चकं नित्यं अधीते नियतात्मभि: ।
शिवप्रसादवाप्नोति शिवेन सह मोदते ।।6।।

एककालं द्विकालं वा त्रिकालं श्रद्धयान्वित: ।
प्रदोषे शिवपर्वे च जपतां सिद्धिमाप्नुयात् ।।7।।

नित्यं अहरह: सन्ध्यां पाठ: कृत्वा शनै: शनै: ।
तस्य गेहे स्थिरालक्ष्मीं जायते नात्र संशय: ।।8।।

निष्कामभावसंयुक्तं नित्यं जपति भक्तिमान् ।

रुद्रलोकं स वै गच्छेद्वसेच्चिरं नसंशय: ।।9।।

धनं धान्यं पशुं पुत्रं विद्यां बुद्धिं बलं तथा ।

आयुर्मोक्षौ यशं चैव ऐहिकं नैहिकं लभेत् ।।10।।

।। इति श्रीमद्देवाङ्गाचार्यविरचितं प्रेमनाथपञ्चकं सम्पूर्णम् ।।

No comments:

Post a Comment

Thank you for your opinion

।।अथ आत्मपञ्चकम्।।

।।अथात्मपञ्चकम्।। न च ज्ञानबुद्धिर्न मे जीवसंज्ञा न च श्राेत्रजीह्वा न च प्राणचेत:। न मेवास्ति बन्धं नचैवास्ति मोक्षं प्रकाशस्वर...