Thursday 26 December 2019

।।अथ आत्मपञ्चकम्।।

।।अथात्मपञ्चकम्।।


न च ज्ञानबुद्धिर्न मे जीवसंज्ञा
न च श्राेत्रजीह्वा न च प्राणचेत:।
न मेवास्ति बन्धं नचैवास्ति मोक्षं
प्रकाशस्वरूप: सदा शुद्धआत्मा।।१।।

नचाहं मनुष्यो गृहस्थाश्रमीऽहं
न च त्रिदिवेश: वनस्थो न भिक्षु:।
न च ब्राह्मणक्षत्रियवैश्यशूद्रा:
प्रकाशस्वरूप: सदा शुद्धआत्मा।।२।।

न भानौप्रकाशोऽस्ति चेन्दौ न अग्नौ
रविर्लोकचेष्टानिमित्तं यथा य:।
तथा भान्ति सर्वे तवापीह विष्णो
प्रकाशस्वरूप: सदा शुद्धआत्मा।।३।।

न मे जातिभेदो न मे लोभमोहौ
न मे मृत्युशंका न मे जन्मकर्मे।
न मे लाभहानी सदाऽहं विमुक्त:
प्रकाशस्वरूप: सदा शुद्धआत्मा।।४।।

यथा दर्पणाभाव आभासहानौ
तथा तस्य हानौ जडं सर्वभाति।
घटस्थं कबन्धे यथा भानुरेक:
प्रकाशस्वरूप: सदा शुद्धआत्मा।।५।।

।।इति श्रीमद्देवाङ्गाचार्यकृदात्मपञ्चकं सम्पूर्णम्।।

२०७६ विक्रमाब्दे मार्गशीर्षकृष्णामावास्यां बृहस्पतिवासरे मध्याह्ने सूर्यग्रहणपर्वणि सर्वसंसारबन्धविमोक्षणाय आत्मतत्वप्रकाशाय आत्मस्वरूपमीश्वरं समर्पयामि।।

No comments:

Post a Comment

Thank you for your opinion

।।अथ आत्मपञ्चकम्।।

।।अथात्मपञ्चकम्।। न च ज्ञानबुद्धिर्न मे जीवसंज्ञा न च श्राेत्रजीह्वा न च प्राणचेत:। न मेवास्ति बन्धं नचैवास्ति मोक्षं प्रकाशस्वर...